Archive for the ‘देवलस्मृतिः’ Category

देवलस्मृतिः

अप्रैल 29, 2018

श्रीगणेशाय नमः।

अथ प्रायश्चित्तवर्णनम्।

Now varnanam, description, of prayashchitta.

सिन्धुतीरे सुखासीनं देवलं मुनिसत्तमम्।

समेत्य मुनयः सर्वे इदं वचनमब्रुवन्॥१॥

अन्वयः –

सर्वे मुनयः समेत्य, सिन्धुतीरे सुखासीनं मुनिसत्तमं देवलम्, इदं वचनमब्रुवन्।

All munis together, said this, to best among the munis, devala, who was sitting happily at the banks of Sindhu (or seashore?).

भगवन्म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवानुपूर्वशः॥२॥

अन्वयः – भगवन्, म्लेच्छनीताः हि ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः च एव शुद्धिं कथम् अवाप्नुयुः?

Bhagwan (bountiful one), how can brahmanas, kshatriyas, vaishyas and shudras, taken by mlechhas (converted into), obtain shuddhi?

कथं स्नानं कथं शौचं प्रायश्चित्तं कथं भवेत्।

किमाचारा भवेयुस्ते तदाचक्ष्व सविस्तरम्॥

अन्वयः – कथं स्नानं, कथं शौचं, कथं प्रायश्चित्तं भवेत्? किम् ते आचाराः भवेयुः? तत् सविस्तरम् आचक्ष्व।

How to bath, how to clean up, how to preform prayashchitta? What shall be those acharas? Achakshwa – tell us, tat – all that, savistaram – in detail.

Advertisements
%d bloggers like this: