संस्कृतग़ज़ल – रासला?

विषयभेदम् अङ्गीकृत्य अद्य ’ग़ज़ल’विषये किञ्चित् लिखामि।

’ग़ज़ल’ मम प्रियः काव्यप्रकारः। हिन्दीग़ज़ल उर्दूग़ज़लतः भिन्ना भवति वेति न जाने। अस्मिन् काव्यप्रकारे हिन्दी-उर्दूभाषया लिखितम् उत्तमसाहित्यम् अतीव अरोचत। किन्तु अत्र प्रीतिः उत्पन्ना सुरेशभटमहोदयस्य मराठी ग़ज़लकारणेन।

संस्कृतेन ग़ज़ललेखनं कर्तुं कतिभ्यश्चन वर्षेभ्यः प्रयत्नरता आसम्। गतसप्ताहे तत्र लघुतमा सफलता प्राप्ता। ग़ज़लव्याकरणशास्त्रानुसारं पश्यामश्चेत् मया संस्कृतेन ग़ज़ल लिखिता इति वक्तुं न शक्यते। ग़ज़लमध्ये ५ ’शेर’ अपेक्षिताः। मम काव्ये चत्वारः एव। ग़ज़लमध्ये ’रदीफ़’ तन्नाम सर्वासु द्वितीयपङ्क्तिषु समानम् अन्तिमाक्षरम् अपेक्षितम्। परन्तु बहुधा एतस्य नियमस्य अपवादाः अपि दृश्यन्ते, अतः मम लेखने तन्नास्ति इत्यत्र दुःखं न करोमि। ’काफ़िया’ इत्युक्ते द्वितीयपङ्क्तेः अन्तिमाक्षराणां सामान्यम् – संस्कृते एषः ’अलङ्कारः’ छन्दशास्त्रे वर्तते इति जानामि, परन्तु मया छन्दशास्त्रं न पठितम् अतः न स्मरामि – काफ़िया मम लेखने अस्ति। ’बहर’ तन्नाम छन्दः अपि।

किन्तु ’मक़्ता’ नास्ति। मक़्ता नाम प्रथम-शेर-मध्ये द्वासु अपि पङ्क्तिषु ’रदीफ़’। ’मतला’ अपि नास्ति। तन्नाम अन्तिमपङ्क्तौ कवेः नामोल्लेखः।

किन्तु मक़्ता च मतला च आवश्यकौ एव इति न। रदीफ़ अपि बहुत्र अपवादेन लोपं गच्छति। अतः यत्र न्यूनातिन्यूनं पञ्च अपेक्षिताः तत्र अधिकाधिकं चत्वारः एव लेखितुं शक्तवती इत्येतावदेव। अन्यथा यल्लिखितं तत् ग़ज़ल एव इत्यत्र न संशयः।

मम संस्कृतग़ज़ल  शीघ्रमेव प्रकाशयामि। http://yaajushi.blogspot.com/ 
ततः पूर्वं कश्चन महत्प्रश्नः।

ग़ज़ल इत्यर्थेन संस्कृतशब्दः कः?

प्रायः नास्ति।

तर्हि मूलतः ग़ज़ल इत्युक्ते किम् इति अन्वेषणं मया आरब्धम्। एषः पारसिकशब्दः। मूलार्थः ’कस्तूरीमृगस्य मरणान्तः चीत्कारः’। अपरः अर्थः कतिभिश्चन उर्दूविद्वद्भिः सूचितः। ग़ज़ाला नाम सुन्दरी स्त्री। तया सह, अथवा तस्याः विषये कृतं काव्यात्मकं सम्भाषणम्।

एतदनुगुणं धातुत्रयं मया लक्षितम्।

नु, १ प, २ प, नौति, प्रणौति, नुत, नावयति, नुनूषति।
1. To roar, to cry, to shout
2.To praise, to extol, to commend

भन्, १ प, भनति
1. To cry, to shout, to resound
2. To worship

रास्, १ आ, रासते
1. To cry, to scream, to yell, to sound, to howl
2. द्वितीयार्थः प्रसिद्धः

तर्हि ग़ज़ल इत्यर्थेन एतादृशः कश्चन शब्दः भवितुं शक्नोति किम् –

रासना, रासला, नवला, नवना, नवनिका, नावगीतम्।

मम व्याकरणशास्त्रस्य किञ्चिदपि ज्ञानं नास्ति अतः एतेषां शब्दानां सिद्धिः भवति वा न वेति न जाने। एवमेव यत्किमपि चिन्तनं जातं तद् भवतां पुरतः उपस्थापितं तावदेव।

Advertisements

3 Comments »

  1. ममाभिप्रायः अनुचितः चेत् क्षम्यताम्। एतादृशानां विश्वप्रसिद्धपदानां स्थाने संस्कृपदनिर्माणं किमर्थम्। तेषां यथातथस्वीकरणमेव स्वाभाविकम्। तत् सर्वसम्मतञ्च भवेत्। विभक्तिप्रत्यययोजने क्लिष्टता अस्ति चेत् वैकल्यं विना उचितं परिष्करणञ्च करोतु।

  2. 3
    Nityananda Manna Says:

    नूतनं किंचित् ज्ञात्वा आनन्दम् अनुभवामि।


RSS Feed for this entry

टीकाः प्रसादायन्ते....

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s

%d bloggers like this: