मनुस्मृतिः

मनुस्मृत्यां विवादास्पदाः केचनांशाः सन्तीत्यत्र नास्ति कोऽपि संशयः। परन्तु बहुत्र योग्येष्वप्यंशेषु जनाः सम्यगविचिन्त्य वृथा विवादमुत्पादयन्ति वेति मनसि सम्भ्रमः जायमानोऽस्ति। अद्य बहुभ्यां दिनानाम् अन्तरेण मनुस्मृतिं पुनरेकवारम् उदघाटयम्। केचनांशाः नूतनतया स्फुरिताः तानेव भवतां समीक्षायै उपस्थापये। उद्घाट्य प्रथमं यत्र दृष्टिः पतिता ततः एव चिन्तनम् आरब्धमतः तत्पूर्वस्य अनन्तरस्य वा चिन्तनं नैव कृतम्।

प्रथमे अध्याये केचन श्लोकाः एवम् –

ब्राह्मणो जायमानो हि पृथिव्यामधिजायते। ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये॥९९॥
सर्वं स्वं ब्राह्मणस्येदं यत्किञ्चिज्जगतीगतम्। श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति॥१००॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च। आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः॥१०१॥
तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः। स्वायम्भुवो मनुर्धीमानिदं शास्त्रमकल्पयत्॥१०२॥

अत्रत्यायाः प्रथमायाः पङ्क्तेः ‘ब्राह्मणः सर्वेभ्यो श्रेष्ठः, सः सर्वान् अतिशेते, सः ईश्वरः इत्यतः अविवेकी मूर्खोऽपि सन् सर्वैरादरणीयः’ इत्येतादृशमर्थं जनाः भावयन्ति। तत्तु सर्वथापि असमर्थनीयः खलु? मनुना किमर्थम् इदम् उक्तं स्यात्?

तस्मिन्नेव स्थाने ‘धर्मकोशस्य गुप्तये’ इति अर्थावगमाय प्रामुख्येन गृहीत्वा पश्यामः। धर्मकोशस्य धर्मबोधकानां शास्त्राणां गुप्तये रक्षणाय ब्राह्मणः ‘ईश्वरः’, authority इति यदाङ्ग्लायां वदामः। ननु ‘ब्राह्मण’शब्दस्य मूलार्थं ‘ब्रह्म जानाति स ब्राह्मणः’ तन्नाम ज्ञातुं प्रयतते सोऽपि वा तादृशः एव ननु धर्माधर्मस्य योग्यं विवेचनं कुर्यात् तर्हि तदर्थं स्वीकुर्मश्चेत् तादृशः यः कोऽपि स्यान्नाम स एव शास्त्राणां रक्षणकार्ये शुद्धत्वप्रतिपादने authority स्यात् खलु?

द्वितीया पङ्क्तिः वदति, जगत्यां पृथिव्यां यत्किमपि वर्तते तत्सर्वमपि ब्राह्मणस्येव। सः एव श्रेष्ठः कुलीनश्च। एतामेव पङ्क्तिं पुनरेकवारं भिन्नेन उपनेत्रेण पश्यामः। ‘सर्वं स्वं ब्राह्मणस्येदम्’ इत्युक्ते जगति यत्किमपि वर्तते तत् सर्वमपि ब्राह्मणः आत्मीयत्वेन पश्यति। तन्नाम कस्यापि हानिं न करोति। अथवा यः एतादृशं सर्वैकात्मकं चिन्तनं करोति सः एव खलु ब्राह्मणः इति वा मनुः वक्तुमिच्छति? अग्रे ‘श्रैष्ठ्येनाभिजनेन अर्हति’ इति उक्तम्। तस्मात् जगति यः एकत्वं पश्यति स ब्राह्मणः इति यत् पूर्वमुक्तं तस्यैव condition एतत्, यतः केवलम् एकत्वं पश्यन् कोऽपि आदरार्हः न भवति तादृशं व्यवहारमकृत्वा। आदरार्हतायै ब्राह्मणेन श्रेष्ठत्वं समीचीनः अभिजनः तन्नाम मित्रपरिवारश्च सम्पादनीयः। इत्युक्ते आचार-विचारैः अपि ब्राह्मणः यदा शुद्धो अभेदबुद्धिः भवेत् तदा एव तस्य एकत्वबुद्धिः स्थिरा भवेत् तदा एव सः ‘ईश्वरो’ भवितुमर्हेत्।

अग्रे यल्लिखितं तत्तु स्पष्टमेव। यत् तेन स्वयमर्जितं तदेव ब्राह्मणो भुङ्क्ते (तदेव ब्राह्मणेन भोक्तव्यमित्यर्थः) स्वयमर्जितमेव वस्त्रं वस्ते स्वयमर्जितमेव ददाति। एतस्याः पङ्क्तेः अर्थः ‘सः अन्येषामपि खादति तत् स्वस्यैव खादति’ इत्यादिः कुत्रचित् मया पठितः सः तु हास्यास्पदः एव मां भाति। ब्राह्मणः वा लुण्ठाकः वा यत् अन्यस्यापि स्वस्यैव मन्यते? स्वसामर्थ्येन यदर्जितं तदेव उपयुङ्क्ते इत्यर्थः साधु इति मन्ये।

अग्रे ‘आनृशंस्याद् ब्राह्मणस्य’ अन्येऽपि भुञ्जते इति उक्तं तत् कथम्? ब्राह्मणः नाम सः विशिष्टबुद्धियुक्तः एव स्यात्, यतः सामान्यबुद्धिमान् ब्रह्मज्ञानप्राप्तेः प्रयत्नमपि कर्तुम् असमर्थः। तादृशः धीमान् यदि स्वबुद्धेः अयोग्यमुपयोगं कुर्यात् तर्हि सामान्यानां भोजनमपि दुष्करं भवेत् इति मनुः सूचयति इति मन्ये, यतः अग्रिमायामेव पङ्क्तौ सः वदति ‘तस्य कर्मविवेकार्थम्’।

भवतु। एतावत् बुद्धिदारिद्र्यम् यत् मया प्रदर्शितम् तत् अलमिति मन्ये। मम मतं भवतां पुरतः उपस्थापितं तावदेव। अल्पबुद्धित्वात् दोषबाहुल्यं स्वाभाविकमेव अतः स्मृतिकारस्य मनोः एव क्षमां प्रार्थये।

इत्यलम्।

Advertisements

5 Comments »

  1. सुष्ठु लेखनं भो !!
    भवता लिखिता मनुस्मृतेः श्लोकस्युपरि टीकाऽपि अतीव शोभना।

  2. रमणीया खलु भवत्याः मनुस्मृतिविषयकं विवरणम् । ’स्वं’ इत्युक्ते, धनं-श्रीः-शेमुषी इति वा क्रियताम्। ब्राह्मणस्य धनार्जनं तस्मै विहितेभ्यः षट्कर्मभिरेव स्यादिति प्रतीमः। मम तु मतं “स्वम्” इत्यस्मिन् स्वार्जितत्वं अन्तर्भवति इति कथं वक्तुं शक्यते? तत्र मनुस्तु स्पष्टं वक्तुमिच्छति, यत् सर्वमिदं ब्राह्मणस्य स्वमेव = धनमेव इति।तन्नाम, सर्वमिदं परमात्मना ब्राह्मणाय दत्तं, यद्ब्राह्मणेन दीयते, तदितरे जना: भुञ्जते। अन्यैर्यदि, ब्राह्मणस्य स्वं भोक्तव्यं तर्हि तदानृशंस्येनैव= तं न हिंसित्वैव स्यादिति च वक्ति मनुः।

  3. 5
    Brijesh Kumar Mishra Says:

    Thats excellent effort manusmriti jaise grantho per charcha ka na hona hi innhe vivadaspad banata hai charcha karne se aur vivadaspad topics ko bhi perimargit kiya ja sakta hai


RSS Feed for this entry

टीकाः प्रसादायन्ते....

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s

%d bloggers like this: