स्यमति, स्यामि!

कतिभ्यश्चन दिनेभ्यः पूर्वं ‘call’ विषये लिखितम् आसीत् मया। तस्यैव चिन्तनस्य अनुवर्तनं कुर्वती आसम्।

call इत्यर्थे बहु विचिन्त्यापि सुयोग्यः शब्दः मनसि नागतः। So then I tried to search an alternative for the word ‘call’ itself. Like ‘ring’. The word ‘ring’ could be fitted in seamlessly. ‘Call’ has a disadvantage, all the sanskrit words I came across meaning ‘call’, were actually meant for calling someone personally, आह्वानम् only. A call by mobile is also a call in its literal sense, but it is परोक्ष. So ‘ring’ is always a better option, since it is more unambiguous.

 इतोऽपि, ‘दूरवाणी आगता / प्राप्ता’ इति वयं सहजतया वदामः। प्रान्तीयभाषानां प्रभावः एषः। दूरवाणी कुतः आगच्छेत्? सा तु तत्रैव अस्ति। Ring भवति, तेन वयं ‘दूरवाणी आगता’ इति भावयामः। अतः ring इत्यर्थानां शब्दानां अन्वेषणम् आरब्धम्।

तत्र स्यम्, स्वन्, स्वृ, शिञ्ज्, नद् इत्यादयः बहवः धातवः सन्ति। I didnt collect too many of them, just these 5, and then tried these one by one.

नद् – नदति इत्येतस्य प्राचीनवाङ्मये प्रयोगः बहुधा दृश्यते। तन्नाम तस्य ‘नादः’ इत्यर्थः प्रस्थापितः। ‘दूरवाणी नादिता’ (प्रयोजकरूपं – केनचित् अन्येन सा नादिता खलु, स्वयं न नदति।) इति उपयोगे अपि सहजम् एव। But my bad habit is that, I prefer not to use established words for new things. These established words have specific meanings of their own. And new (less used or unused) words for new things will only enhance the capacity and expanse of language.

अतः ‘नद्’ केवलम् अगतिकगतौ एव उपयोक्तव्यः इति निश्चित्य अहं स्वृ विषये चिन्तनम् आरब्धवती। स्वृ – स्वरति अपि रूढशब्दः एव। पुनः ‘दूरवाणी स्वरति’ इति तावत् कर्णाभ्यां न रोचते। स्वनति इत्यपि विशेषतया मेघादिकानाम् उच्चध्वनेः अवबोधनाय उपयुज्यते। दूरवाण्याः तु तावान् उच्चध्वनिः नास्ति।

स्यम् इति वाङ्मये बहुत्र उपयुक्तः न स्यात्। to sound इत्येव तस्य अर्थः। अतः दूरवाणी स्यमति इति वक्तुं शक्यते इति मे मतिः। Again स्यमति matches with another word I am just going to discuss. Due to this alliteration in these two words, I was fascinated. So I naturally am biased about स्यम्.

शिञ्ज् इत्येषः धातुः तु आभूषणानां किङ्किण् सूचयति। अतः ringtone श्रवणमधुरा अस्ति चेत् सुखेन तस्य उपयोगः शक्यः इति मन्ये।

Then comes ‘to cut /end the call’.  In case of landline, स्थापयामि (receiver)  is okay. But it doesn’t work with mobile. So I was delighted to suddenly stumble upon the dhatu सो – स्यति. It means ‘to finish, to complete, to end’. Exactly what is needed. Others like खण्ड् भञ्ज् etc actually mean to break, to tear apart. No one is breaking his mobile in 100 parts after every call!! स्थगयति may fit as सम्भाषणं स्थगयति, but it does not fit for the above mentioned situation. स्यति is exactly what is required and it is also not a totally unknown verb. It is used with its upasargas in many places. But very rarely in this original form. So it can be used without any ambiguity.

अतः इतः परं मम जङ्गमवाणी स्यमति चेत्, अहं तां तत्क्षणमेव स्यामि। चिन्ता मास्तु, तस्य क्रमाङ्कस्य दूरवाणीं स्यमयामि खलु!

Advertisements

5 Comments »

  1. 1
    jyothirmayi Says:

    याजुषि,

    वाचामुदयः एवं भवतिति भाति! श्लाघनीयः स्थिरोत्साहः।
    चिन्तनाय पुनरॆकं पदम् –
    “Click this button” अत्र “क्लिक्” (Click) इत्य्स्य संस्कृतं पदं किं वा उपयुज्यते अधुना?

  2. नमस्ते!
    येषां शब्दानां उत्पत्तिः द्वि-त्रि-शतवर्षपूर्वम् अभवत्, तेषां सस्कृतशब्दविकल्प-सृजनं खलु निश्चितरूपेण अत्यायाससापेक्षं क्लेशबोद्धव्यं च भवेत्।
    अतः अस्माकं कृते कञ्चित् अपरम् उपायमस्ति। येन प्रकारेण आङ्ग्ल-भाषा विश्वस्य प्रचलिताभ्यः भाषाभ्यः नियमितरूपेण प्रायशः अविकृतरूपेण शब्दानाम् आत्मसात्करणं विदधाति, तथैव देवभाषासमुद्रे सर्वाः अपराः भाषाः आमिलन्तु तासां शब्दकोषेण सह, जनाः निःसंकोचं अपरभाषाभ्यः शब्दानां प्रयोगं अनर्गलं कुर्वन्तु संस्कृतवाचने। इत्थम् स्वयमेव संस्कृतस्य पुनर्प्रचारः नवयुगधारणसामर्थ्यञ्च भविष्यति।
    निर्माल्य चक्रवर्ती

    • 3
      yaajushi Says:

      निर्माल्यमहोदय –
      सत्यं श्रीमन्।
      एतस्योपायस्य समर्थका अपि बहवः। तद्भवतु नाम। संस्कृते नवशब्दनिर्माणस्य या महती शक्तिर्विद्यते तस्याः शक्तेरहं साधनां कर्तुमिच्छामि। तावदेव। व्याकरणं नाधीतमित्यतः शब्दशुद्धिस्तु नावगम्यते मया। पुनश्च साहित्यस्यापि विशेषाध्ययनं नास्त्यतः शब्दसम्पन्न्यूनैव। एवमेव कदाचित् किमपि स्फुरणं भवति तदत्र उपस्थापयामि।
      भवतां टिप्पणी आनन्दाय जाता। धन्यवादाः।

  3. भवत्याः शब्दोत्पत्तिः मह्यं बह्वरोचत। निर्माल्य महोदयेन यदुक्तं तत्रापि वर्तते सत्यांशः। संस्कृतभाषायाः सर्वेऽपि शब्दाः धातुजा एव भवेयुरिति नियमे सत्यपि, स एव अभिप्रायः व्याकरण-शिष्टप्रयोग: सम्मत इति जानन्तोऽपि, अस्माभिः काचित्क्रान्तिरानेतव्या एव।
    अन्यच्च, Click इत्यस्य शब्दस्य क्रियारूपस्य क्लिक्कतु/क्लिक्कति इत्येव स्यादिति मे मतिः। यतोहि संस्कृत भाषायामपि अनुरणन शब्दाः दृश्यन्ते। पटपटायते, खाट्कृत्य प्रभृतयः। अतः अनुरणन[Onomatopoetic words; Onomatopoeia] शब्दानुकरणे न कोऽपि दोषः।


RSS Feed for this entry

टीकाः प्रसादायन्ते....

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s

%d bloggers like this: