the last straw… :P

अप्रैल 1, 2012

and the straw can comfortably be called चूषिका😛

मंचूरियन्-पिज़्ज़ा-नूड़लादयः

फ़रवरी 2, 2011

Proper Nouns shudnt be translated, say some friends.

So firstly, i’d like to point out that chinese dnt call these items by the names of noodles and manchurian. if english-speaking guys coined names in english, why cant we sanskrit-speakers coin names in sanskrit?

Secondly, since i am no ‘vaiyyakarana’, i’m just letting my imagination fly. in marathi we call it ‘अकलेचे तारे तोडणे’.

तर्हि एवमस्ति यत् http://en.wiktionary.org/wiki/Manchurian तथा च http://en.wikipedia.org/wiki/Manchuria इत्येताभ्यां वाचनात् मनसि किमपि स्फुरितम्। विशेषतया http://en.wikipedia.org/wiki/Manchu एतस्मिन् पुटे उल्लिखितम्  “The first ancestors of the Manchu were the Sushen, a people who lived during the second and first millennia BC.” मम अवधानमाकर्षत्।

यद्यपि आङ्ग्लैः तस्य खाद्यपदार्थविशिष्टस्य नामकरणं ‘manchu’जनेभ्यः स्वीकृतं मन्ये अहं तत् ’सुषेणेभ्यः’ स्वीकरोमि चेत् तत्र प्रत्यवायो न भवेत्। and dnt tell me that the word isnt ‘सुषेण’, because i got a kick out of pronouncing it as ‘सुषेण’😀

so, starting with सुषेणाः, a manchu will be called सौषेणिः and ‘of manchu=manchurian’ will be सौषेणम्!!!!

Pls pls pls someone establish the correctness of this!!

——————————————————————————–

पिज़्ज़ाविषयेऽपि http://en.wiktionary.org/wiki/pizza तथा च http://en.wikipedia.org/wiki/History_of_pizza इत्येतयोः सहाय्येन ज्ञातम्। तत्र तेषु तेषु पुटेषु कियत्यः अपि परिशुद्धयः भवन्तु नाम (The Importance of Being Wiki :P), एकं तु निश्चितं यत् पिज़्ज़ा नाम bread/cake (रोटिका इति) with toppings. तन्नाम पिष्टपिण्डः एव।

‘Toppings sitting on the bread’ इति कृत्वा ’पिष्टसादम्’ इति वक्तुं शक्नुमः। अथवा विभिन्नैः रसैः पिष्टपिण्डः स्वादीक्रियते इत्यतः ’पिष्टरसा’ इति वा वक्तुं शक्नुमः।

——————————————————————————–

Noodles नाम विसूत्रिकाः इति बहु पूर्वमेव कुत्रचित् पठितम्। मन्ये सुयोग्यमेव अस्ति।

——————————————————————————–

Pasta इत्यपि http://en.wikipedia.org/wiki/Pasta अत्र दृष्टम्। तस्य संस्कृतेन नामकरणस्य धार्ष्ट्यं कर्तुं नोत्सहे😛 तथापि सामान्यतया तद् ’पैष्टम्’ इत्येव भवेत् किल?

——————————————————————————–

इत्येतावता अलम्😛

सधन्यवादम्।

संस्कृतग़ज़ल – रासला?

मार्च 20, 2010

विषयभेदम् अङ्गीकृत्य अद्य ’ग़ज़ल’विषये किञ्चित् लिखामि।

’ग़ज़ल’ मम प्रियः काव्यप्रकारः। हिन्दीग़ज़ल उर्दूग़ज़लतः भिन्ना भवति वेति न जाने। अस्मिन् काव्यप्रकारे हिन्दी-उर्दूभाषया लिखितम् उत्तमसाहित्यम् अतीव अरोचत। किन्तु अत्र प्रीतिः उत्पन्ना सुरेशभटमहोदयस्य मराठी ग़ज़लकारणेन।

संस्कृतेन ग़ज़ललेखनं कर्तुं कतिभ्यश्चन वर्षेभ्यः प्रयत्नरता आसम्। गतसप्ताहे तत्र लघुतमा सफलता प्राप्ता। ग़ज़लव्याकरणशास्त्रानुसारं पश्यामश्चेत् मया संस्कृतेन ग़ज़ल लिखिता इति वक्तुं न शक्यते। ग़ज़लमध्ये ५ ’शेर’ अपेक्षिताः। मम काव्ये चत्वारः एव। ग़ज़लमध्ये ’रदीफ़’ तन्नाम सर्वासु द्वितीयपङ्क्तिषु समानम् अन्तिमाक्षरम् अपेक्षितम्। परन्तु बहुधा एतस्य नियमस्य अपवादाः अपि दृश्यन्ते, अतः मम लेखने तन्नास्ति इत्यत्र दुःखं न करोमि। ’काफ़िया’ इत्युक्ते द्वितीयपङ्क्तेः अन्तिमाक्षराणां सामान्यम् – संस्कृते एषः ’अलङ्कारः’ छन्दशास्त्रे वर्तते इति जानामि, परन्तु मया छन्दशास्त्रं न पठितम् अतः न स्मरामि – काफ़िया मम लेखने अस्ति। ’बहर’ तन्नाम छन्दः अपि।

किन्तु ’मक़्ता’ नास्ति। मक़्ता नाम प्रथम-शेर-मध्ये द्वासु अपि पङ्क्तिषु ’रदीफ़’। ’मतला’ अपि नास्ति। तन्नाम अन्तिमपङ्क्तौ कवेः नामोल्लेखः।

किन्तु मक़्ता च मतला च आवश्यकौ एव इति न। रदीफ़ अपि बहुत्र अपवादेन लोपं गच्छति। अतः यत्र न्यूनातिन्यूनं पञ्च अपेक्षिताः तत्र अधिकाधिकं चत्वारः एव लेखितुं शक्तवती इत्येतावदेव। अन्यथा यल्लिखितं तत् ग़ज़ल एव इत्यत्र न संशयः।

मम संस्कृतग़ज़ल  शीघ्रमेव प्रकाशयामि। http://yaajushi.blogspot.com/ 
ततः पूर्वं कश्चन महत्प्रश्नः।

ग़ज़ल इत्यर्थेन संस्कृतशब्दः कः?

प्रायः नास्ति।

तर्हि मूलतः ग़ज़ल इत्युक्ते किम् इति अन्वेषणं मया आरब्धम्। एषः पारसिकशब्दः। मूलार्थः ’कस्तूरीमृगस्य मरणान्तः चीत्कारः’। अपरः अर्थः कतिभिश्चन उर्दूविद्वद्भिः सूचितः। ग़ज़ाला नाम सुन्दरी स्त्री। तया सह, अथवा तस्याः विषये कृतं काव्यात्मकं सम्भाषणम्।

एतदनुगुणं धातुत्रयं मया लक्षितम्।

नु, १ प, २ प, नौति, प्रणौति, नुत, नावयति, नुनूषति।
1. To roar, to cry, to shout
2.To praise, to extol, to commend

भन्, १ प, भनति
1. To cry, to shout, to resound
2. To worship

रास्, १ आ, रासते
1. To cry, to scream, to yell, to sound, to howl
2. द्वितीयार्थः प्रसिद्धः

तर्हि ग़ज़ल इत्यर्थेन एतादृशः कश्चन शब्दः भवितुं शक्नोति किम् –

रासना, रासला, नवला, नवना, नवनिका, नावगीतम्।

मम व्याकरणशास्त्रस्य किञ्चिदपि ज्ञानं नास्ति अतः एतेषां शब्दानां सिद्धिः भवति वा न वेति न जाने। एवमेव यत्किमपि चिन्तनं जातं तद् भवतां पुरतः उपस्थापितं तावदेव।

मनुस्मृतिः

अगस्त 13, 2009

मनुस्मृत्यां विवादास्पदाः केचनांशाः सन्तीत्यत्र नास्ति कोऽपि संशयः। परन्तु बहुत्र योग्येष्वप्यंशेषु जनाः सम्यगविचिन्त्य वृथा विवादमुत्पादयन्ति वेति मनसि सम्भ्रमः जायमानोऽस्ति। अद्य बहुभ्यां दिनानाम् अन्तरेण मनुस्मृतिं पुनरेकवारम् उदघाटयम्। केचनांशाः नूतनतया स्फुरिताः तानेव भवतां समीक्षायै उपस्थापये। उद्घाट्य प्रथमं यत्र दृष्टिः पतिता ततः एव चिन्तनम् आरब्धमतः तत्पूर्वस्य अनन्तरस्य वा चिन्तनं नैव कृतम्।

प्रथमे अध्याये केचन श्लोकाः एवम् –

ब्राह्मणो जायमानो हि पृथिव्यामधिजायते। ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये॥९९॥
सर्वं स्वं ब्राह्मणस्येदं यत्किञ्चिज्जगतीगतम्। श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति॥१००॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च। आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः॥१०१॥
तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः। स्वायम्भुवो मनुर्धीमानिदं शास्त्रमकल्पयत्॥१०२॥

अत्रत्यायाः प्रथमायाः पङ्क्तेः ‘ब्राह्मणः सर्वेभ्यो श्रेष्ठः, सः सर्वान् अतिशेते, सः ईश्वरः इत्यतः अविवेकी मूर्खोऽपि सन् सर्वैरादरणीयः’ इत्येतादृशमर्थं जनाः भावयन्ति। तत्तु सर्वथापि असमर्थनीयः खलु? मनुना किमर्थम् इदम् उक्तं स्यात्?

तस्मिन्नेव स्थाने ‘धर्मकोशस्य गुप्तये’ इति अर्थावगमाय प्रामुख्येन गृहीत्वा पश्यामः। धर्मकोशस्य धर्मबोधकानां शास्त्राणां गुप्तये रक्षणाय ब्राह्मणः ‘ईश्वरः’, authority इति यदाङ्ग्लायां वदामः। ननु ‘ब्राह्मण’शब्दस्य मूलार्थं ‘ब्रह्म जानाति स ब्राह्मणः’ तन्नाम ज्ञातुं प्रयतते सोऽपि वा तादृशः एव ननु धर्माधर्मस्य योग्यं विवेचनं कुर्यात् तर्हि तदर्थं स्वीकुर्मश्चेत् तादृशः यः कोऽपि स्यान्नाम स एव शास्त्राणां रक्षणकार्ये शुद्धत्वप्रतिपादने authority स्यात् खलु?

द्वितीया पङ्क्तिः वदति, जगत्यां पृथिव्यां यत्किमपि वर्तते तत्सर्वमपि ब्राह्मणस्येव। सः एव श्रेष्ठः कुलीनश्च। एतामेव पङ्क्तिं पुनरेकवारं भिन्नेन उपनेत्रेण पश्यामः। ‘सर्वं स्वं ब्राह्मणस्येदम्’ इत्युक्ते जगति यत्किमपि वर्तते तत् सर्वमपि ब्राह्मणः आत्मीयत्वेन पश्यति। तन्नाम कस्यापि हानिं न करोति। अथवा यः एतादृशं सर्वैकात्मकं चिन्तनं करोति सः एव खलु ब्राह्मणः इति वा मनुः वक्तुमिच्छति? अग्रे ‘श्रैष्ठ्येनाभिजनेन अर्हति’ इति उक्तम्। तस्मात् जगति यः एकत्वं पश्यति स ब्राह्मणः इति यत् पूर्वमुक्तं तस्यैव condition एतत्, यतः केवलम् एकत्वं पश्यन् कोऽपि आदरार्हः न भवति तादृशं व्यवहारमकृत्वा। आदरार्हतायै ब्राह्मणेन श्रेष्ठत्वं समीचीनः अभिजनः तन्नाम मित्रपरिवारश्च सम्पादनीयः। इत्युक्ते आचार-विचारैः अपि ब्राह्मणः यदा शुद्धो अभेदबुद्धिः भवेत् तदा एव तस्य एकत्वबुद्धिः स्थिरा भवेत् तदा एव सः ‘ईश्वरो’ भवितुमर्हेत्।

अग्रे यल्लिखितं तत्तु स्पष्टमेव। यत् तेन स्वयमर्जितं तदेव ब्राह्मणो भुङ्क्ते (तदेव ब्राह्मणेन भोक्तव्यमित्यर्थः) स्वयमर्जितमेव वस्त्रं वस्ते स्वयमर्जितमेव ददाति। एतस्याः पङ्क्तेः अर्थः ‘सः अन्येषामपि खादति तत् स्वस्यैव खादति’ इत्यादिः कुत्रचित् मया पठितः सः तु हास्यास्पदः एव मां भाति। ब्राह्मणः वा लुण्ठाकः वा यत् अन्यस्यापि स्वस्यैव मन्यते? स्वसामर्थ्येन यदर्जितं तदेव उपयुङ्क्ते इत्यर्थः साधु इति मन्ये।

अग्रे ‘आनृशंस्याद् ब्राह्मणस्य’ अन्येऽपि भुञ्जते इति उक्तं तत् कथम्? ब्राह्मणः नाम सः विशिष्टबुद्धियुक्तः एव स्यात्, यतः सामान्यबुद्धिमान् ब्रह्मज्ञानप्राप्तेः प्रयत्नमपि कर्तुम् असमर्थः। तादृशः धीमान् यदि स्वबुद्धेः अयोग्यमुपयोगं कुर्यात् तर्हि सामान्यानां भोजनमपि दुष्करं भवेत् इति मनुः सूचयति इति मन्ये, यतः अग्रिमायामेव पङ्क्तौ सः वदति ‘तस्य कर्मविवेकार्थम्’।

भवतु। एतावत् बुद्धिदारिद्र्यम् यत् मया प्रदर्शितम् तत् अलमिति मन्ये। मम मतं भवतां पुरतः उपस्थापितं तावदेव। अल्पबुद्धित्वात् दोषबाहुल्यं स्वाभाविकमेव अतः स्मृतिकारस्य मनोः एव क्षमां प्रार्थये।

इत्यलम्।

स्यमति, स्यामि!

अक्टूबर 20, 2007

कतिभ्यश्चन दिनेभ्यः पूर्वं ‘call’ विषये लिखितम् आसीत् मया। तस्यैव चिन्तनस्य अनुवर्तनं कुर्वती आसम्।

call इत्यर्थे बहु विचिन्त्यापि सुयोग्यः शब्दः मनसि नागतः। So then I tried to search an alternative for the word ‘call’ itself. Like ‘ring’. The word ‘ring’ could be fitted in seamlessly. ‘Call’ has a disadvantage, all the sanskrit words I came across meaning ‘call’, were actually meant for calling someone personally, आह्वानम् only. A call by mobile is also a call in its literal sense, but it is परोक्ष. So ‘ring’ is always a better option, since it is more unambiguous.

 इतोऽपि, ‘दूरवाणी आगता / प्राप्ता’ इति वयं सहजतया वदामः। प्रान्तीयभाषानां प्रभावः एषः। दूरवाणी कुतः आगच्छेत्? सा तु तत्रैव अस्ति। Ring भवति, तेन वयं ‘दूरवाणी आगता’ इति भावयामः। अतः ring इत्यर्थानां शब्दानां अन्वेषणम् आरब्धम्।

तत्र स्यम्, स्वन्, स्वृ, शिञ्ज्, नद् इत्यादयः बहवः धातवः सन्ति। I didnt collect too many of them, just these 5, and then tried these one by one.

नद् – नदति इत्येतस्य प्राचीनवाङ्मये प्रयोगः बहुधा दृश्यते। तन्नाम तस्य ‘नादः’ इत्यर्थः प्रस्थापितः। ‘दूरवाणी नादिता’ (प्रयोजकरूपं – केनचित् अन्येन सा नादिता खलु, स्वयं न नदति।) इति उपयोगे अपि सहजम् एव। But my bad habit is that, I prefer not to use established words for new things. These established words have specific meanings of their own. And new (less used or unused) words for new things will only enhance the capacity and expanse of language.

अतः ‘नद्’ केवलम् अगतिकगतौ एव उपयोक्तव्यः इति निश्चित्य अहं स्वृ विषये चिन्तनम् आरब्धवती। स्वृ – स्वरति अपि रूढशब्दः एव। पुनः ‘दूरवाणी स्वरति’ इति तावत् कर्णाभ्यां न रोचते। स्वनति इत्यपि विशेषतया मेघादिकानाम् उच्चध्वनेः अवबोधनाय उपयुज्यते। दूरवाण्याः तु तावान् उच्चध्वनिः नास्ति।

स्यम् इति वाङ्मये बहुत्र उपयुक्तः न स्यात्। to sound इत्येव तस्य अर्थः। अतः दूरवाणी स्यमति इति वक्तुं शक्यते इति मे मतिः। Again स्यमति matches with another word I am just going to discuss. Due to this alliteration in these two words, I was fascinated. So I naturally am biased about स्यम्.

शिञ्ज् इत्येषः धातुः तु आभूषणानां किङ्किण् सूचयति। अतः ringtone श्रवणमधुरा अस्ति चेत् सुखेन तस्य उपयोगः शक्यः इति मन्ये।

Then comes ‘to cut /end the call’.  In case of landline, स्थापयामि (receiver)  is okay. But it doesn’t work with mobile. So I was delighted to suddenly stumble upon the dhatu सो – स्यति. It means ‘to finish, to complete, to end’. Exactly what is needed. Others like खण्ड् भञ्ज् etc actually mean to break, to tear apart. No one is breaking his mobile in 100 parts after every call!! स्थगयति may fit as सम्भाषणं स्थगयति, but it does not fit for the above mentioned situation. स्यति is exactly what is required and it is also not a totally unknown verb. It is used with its upasargas in many places. But very rarely in this original form. So it can be used without any ambiguity.

अतः इतः परं मम जङ्गमवाणी स्यमति चेत्, अहं तां तत्क्षणमेव स्यामि। चिन्ता मास्तु, तस्य क्रमाङ्कस्य दूरवाणीं स्यमयामि खलु!

सङ्केतकः वा निर्देशिका वा….

अगस्त 14, 2007

शब्दाः क्रीडनकाः इव इति यत् कश्चन उक्तवान्, तस्मात् प्रेरणां प्राप्य ममापि शब्दच्छलं भवता सह share कर्तुम् इच्छामि।
link इत्यर्थे शब्दान्वेषणं बहुकालात् अहमपि कुर्वती आसम्। तस्मिन् लेखे ‘सम्बन्ध’ इति शब्दो दृष्टः। सोऽपि योग्यः एव, किन्तु तथापि तत् फिट् न भाति मम मनसि। तदर्थे नयतीति (to take to some other location) पुंलिङ्गे नेता स्त्रीलिङ्गे नेत्री वा स्वार्थे कन् इति कृत्वा नेत्रिकः नेत्रिका वा इति रूपं सिद्धं भवति। तत् link इत्यर्थेन उपयोक्तुं शक्यते वेति कस्माच्चित् व्याकरणपण्डितात् ज्ञातव्यः।
अथवा to point इत्यर्थं मत्वा ‘सङ्केतकः’, to indicate इति वा स्वीकृत्य ‘निर्देशिका’ इत्यादयः अपि प्रयोगाः अङ्गीकारार्हाः स्युः।
व्याकरणशास्त्रस्य अभ्यासस्य अभावात् अहं केवलं ऊहितुं शक्नोमि, न तु आधिकारिकतया वक्तुम्।
मम चिन्तने दोषाः सन्तीति अहं जानामि। तेषां परिष्कारः भवेत् चेत् अनुगृहीता भवेयम्।

अव्यवहितम् call

अगस्त 7, 2007

It has been about an year now that I have got a cellphone. The feature i liked most in it is the availability of hindi and marathi in this cell. Except for a few words like menu, inbox etc, most of the words are translated in hindi/marathi. So Message becomes सन्देश, Contacts becomes सम्पर्क and so on. The word used for ‘Forward’ is अग्रेषित करें. Is अग्रेषित a sanskrit word?

Also, from the day I got my cell, the ‘missed’ calls have never missed me. Whenever I miss a call, the only thing that comes to my mind is, how would I say ‘missed call’ in sanskrit? My cell reads छूटी कॉलें, but the few sanskrit words I came across which would mean छूटना (to be left), I found none of them satisfactory.

त्यज्, स्रंस् and a lot more words I stumbled upon from time to time. But none of them seemed befitting. So the problem was eating within my mind for almost an year when I found this word –

व्यवहितम् (विशेषण, वि+अव+धा, क्त)

  1. अलग अलग रखा हुआ, kept seperately
  2. किसी अन्तःक्षिप्त वस्तु के कारण वियुक्त किया गया, seperated due to some internal cause
  3. बाधित, रोका गया, अवरुद्ध, अडचन से युक्त, stopped, having problem
  4. दृष्टि से ओझल, छिपाया हुआ, गुप्त, unnoticed, unseen, hidden
  5. जिसका निरन्तर सम्बन्ध न हो, that which is not in continuous contact
  6. किया गया, सम्पन्न,  done, finished
  7. भूला हुआ, छोडा हुआ, forgotten, left
  8. आगे बढा हुआ, आगे निकला हुआ, foregone, gone ahead
  9. विपक्षी, विरोधी,  opposition

All the above meanings except 9 agree with some or other situation when a call is missed. That is to say, 1-8 are various reasons for missing a call.

Then, in sanskrit, we can definitely say, सः व्यवहितम् call कृतवान्, आगमनात् पूर्वम् एकं व्यवहितम् call करोतु भोः, व्यवहितम् call प्राप्तम् etc and so on!! And this is so obvious that we don’t need a वैय्याकरण to confirm the साधुत्व of this!

So the year-long search is finally finished. Yet, this gives rise to a new search – what would we call a ‘call’? ‘व्यवहितम् call’ sounds pretty hybrid! And yes, please do call on me if you find a sanskrit word for ‘call’.

Well, the time is calling and I’ll have to go now, but just a parting note – don’t use व्यवधानम् instead of व्यवहितम्. व्यवधानम् does not come anywhere near व्यवहितम्. As for the ‘call’, the search continues – अव्यवहितम् (without a break or a miss!!!)

विचारविमर्शादयः

अगस्त 5, 2007

‘Forum’ is defined in dictionary as:

  1. Public place
  2. Market place
  3. A place of or meeting for public discussion
  4. A periodical etc giving an opportunity for discussion
  5. A court or tribunal
  6. A public square or a market place in an ancient roman city (in this sense, Latin)

Forum of Ancient Romans
Online forums are basically discussion forums, which relate to meaning 1, 3, 4 and to some extent, first half of 6. Rather, online forums are much more effective in bringing up good discussion as well as maintaining them, at the same time sidelining the unimportant issues from the point of view of the participant public. Thus, while searching for the Sanskrit counterpart of the ‘forum’, this aspect of discussion must be considered. For quite a long time I was at my wits ends about this ‘forum’. The most obvious choice would of course be चर्चास्थानम्, but, oh, how very unaesthetic that sounds!! I prefer to see new words with a beauty and identity of their own, with an aura of their own personality (oh yes, I believe words have their own personality). The word चर्चास्थानम् is too simple and obvious to be perfect and, more importantly, presentable. 

I tried all sorts of grammatical tricks I knew (and I know a negligible amount) on the words चर्चा (noun) and चर्च् (verb), trying to avoid the word स्थानम्. Alas, with zero knowledge of व्याकरणम्, engaging in such exercises is indeed laughable. Well, I left the topic after a number of futile attempts.

Then today while going through the dictionary, I stumbled upon a few words like विचार, विमर्श, मन्त्रणा etc. Not that I hadn’t heard these words earlier, but today they triggered a new thought process. After all, I was desperately searching for an alternative to चर्चा. So I looked up all those words in the V. S. Apte Sanskrit – Hindi dictionary. Amongst them, विमर्श fits better than others. Thus, that which I could not do with चर्चा, I found easier to do with विमर्श, that is, to twist the word in as many shapes. 

So I toyed with वैमर्शिनी, वैमर्शा, विमर्शिका, विमर्शालयः, विमर्शशाला. The word should mean ‘a place for discussion’ that is ‘विमर्शः यत्र भवति तत्’. But the tragedy is, I cannot decide what should be the correct form. Even I thought of the words वैचारिणी or विचारङ्करी. But wouldn’t विचारङ्करी mean ‘he who thinks’? May be विचारङ्कारी comes closer. But it sounds so crude. And then विचार is not as perfect as विमर्श. And if we have to think of विमर्शङ्कारी, then I would prefer वैमर्शा. 

We also have the word गोष्ठी, but then a गोष्ठी has some agenda or a predecided topic which is discussed. I think the word जालगोष्ठी may be used when the forums are highly topic centric, and do not cover a wider and vague range but a limited yet specialized horizon for discussion. 

There also is the word मन्त्रणा which can be conformed as मान्त्रणिकम्, मन्त्रणाकक्षः, or even a place where मन्त्रणा takes place is a सभा. But मन्त्रणा essentially has a sense of advice, which hampers its appeal as a substitute to चर्चा. In चर्चा there can be advice, but advice in चर्चा is an aspect of the whole चर्चा, whereas it is the major and defining element in मन्त्रणा. And the word मन्त्रणा is so much related with kings and ministers and courts that the Sanskrit word for minister, मन्त्री, is a close relative of मन्त्रणा. So we better leave the word to royal patronage. 

The word चिन्तनिका also seems ok, but it has a seriousness around it. A forum may be there for just fun, jokes, timepass. Discussions also happen on such a forum, but it would not fit to call the forum ‘चिन्तनिका. So the chintan goes down. जल्पनिका or anything from जल्प् is out of consideration on the same lines. 

As for now, I have zeroed in on विचारमञ्चः, meaning a platform to express the thoughts. By jumping on a मञ्च, I have sidelined the ‘discussion’, and the मञ्च will highlight meaning number 4, with an increased modified sense of individuality and personal expression. The word, so far, seems ok than others discussed hitherto. But if I am guaranteed the साधुत्व of all the words mentioned above, I will definitely go for वैमर्शा. Until the साधुत्वनिर्णयः is done, I should rather discuss this more on some forum!! 

जल्पनप्रलापः

अगस्त 3, 2007

Meaning of the word ‘chat’ has an inherent sense of ‘talking’ implied in it. Yet when we mean chatting over the net we intend to convey ‘writing’. And when it comes to talking over the net we call it ‘voice chat’, when the word ‘chat’ itself meant the same, though it didn’t express the complete sense in the case of regular ‘chat’, which is written and not oral.

We want small, sharp and meaningful words. Still we don’t complain about using a long or compound word like ‘voice chat’. Then while searching or creating the sanskrit counterparts, the words जल्पनम् and लिखितजल्पनम्/लेख्यजल्पनम् would be appropriate it seems, with regular ‘chat’ being called लिखितजल्पनम्/लेख्यजल्पनम् instead of जल्पनम् having to convey an imposed meaning of writing and the word जल्पनम् being allowed to retain its ‘oral’ flavour by attributing it to voice chat.

In case of confusion, ‘over the net’ can be conveyed by saying जालजल्पनम्. Noting the reversification of meanings that I have done, जालजल्पनम् would essentially mean a voice chat over the net.लेख्यजल्पनम् can of course always convey that it is definitely over the net/mobile.

The remaining follows easily:

chat box: जल्पनकोषः

chat window: जल्पनायनम्

chat room:जल्पनकक्षः

messenger: सन्देशदम् (I prefer it in neutral gender)

Though the words जल्पकः/जल्पिका would have to be avoided, because they mean ‘talkative’. Instead, जल्पनं करोति इति जल्पनकः/जल्पनका would fare better, in my opinion.

All of the above must, of course, undergo the analysis of an expert.

Follow

Get every new post delivered to your Inbox.

%d bloggers like this: